|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.73. अध्यायः 073
Mahabharata - Vana Parva - Chapter Topics
केशिन्या बाहुकस्य जलाग्न्युत्पादनाद्यद्भुतकर्मनिवेदितया दमयन्त्या पुनःपरीक्षणाय तंप्रति कन्यापुत्रयोः प्रेपणम् ॥ 1 ॥ बाहुकेन सबाष्पं पुत्रयोः परिरम्भणम्। केशिनींप्रति स्वकर्मणः कारणान्तरकथनेनापह्नवश्च ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
बृहदश्व उवाच। 3-73-0x(1966)(18690)
केशिन्यास्तद्वचः श्रुत्वा दमयन्ती विशांपते।
शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् ॥ 3-73-1(18691)
गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके।
अब्रुवाणा समीपस्था चरितान्यस्य लक्षय ॥ 3-73-2(18692)
यदा च किंचित्कुर्यात्स कारणं तत्र भामिनि।
तत्रसंचेष्टमानस्य संलक्षेथा विचेष्टितम् ॥ 3-73-3(18693)
न चास्य प्रतिबन्धेन देयोऽग्निरपि केशिनि।
याचते न जलं देयं सकृच्चात्वरमाणया।
एतत्सर्वं समीक्ष्यत्वं चरितं मे निवेदय ॥ 3-73-4(18694)
निमित्तं यत्त्वया दृष्टं बाहुके दैवमानुषम्।
यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम ॥ 3-73-5(18695)
दमयन्त्यैवमुक्ता सा जगामाथ च केशिनी।
निशाम्याथ हयज्ञस्य लिङ्गानि पुनरागमत् ॥ 3-73-6(18696)
सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत्।
निमित्तं यत्तया दृष्टं बाहुके दिव्यमानुषम् ॥ 3-73-7(18697)
केशिन्युवाच। 3-73-8x(1967)
दृढं शुच्यपदानोसौ न मया मानुषः क्वचित्।
दृष्टपूर्वः श्रुतो वाऽपि दमयन्ति तथाविधः ॥ 3-73-8(18698)
ह्रस्वमासाद्य तु द्वारं नासौ विनमते क्वचित्।
तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम्।
संकटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम् ॥ 3-73-9(18699)
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः।
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः।
प्रेषितं तत्रराज्ञा तु मांसं बहु च पाशवम् ॥ 3-73-10(18700)
तस्य प्रक्षालनार्थाय कुम्भास्तत्रोपकल्पिताः।
ते तेनावेक्षिताः कुम्भाः पूर्णा एवाभवंस्ततः ॥ 3-73-11(18701)
ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः।
तृणमुष्टिं समादाय सवितुस्तं समादधत् ॥ 3-73-12(18702)
अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः।
तदद्भुततमं दृष्ट्वा विस्मिताऽमिहागता ॥ 3-73-13(18703)
अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया।
यदग्निमपि संस्पृश्य नैवासौ दह्यते शुभे ॥ 3-73-14(18704)
छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम्।
अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् ॥ 3-73-15(18705)
यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः।
मृद्यमानानि पाणिभ्यां तेन पुष्पाणि नान्यथा।
भूय एव सुगन्धीनि हृपितानि भवन्ति हि ॥ 3-73-16(18706)
एतान्यद्भुतकल्पानि दृष्ट्वाऽहं भृशविस्मिता।
चेष्टितानि विशालाक्षि बाहुकस्य समीपतः ॥ 3-73-17(18707)
बृहदश्व उवाच। 3-73-18x(1968)
दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम्।
अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् ॥ 3-73-18(18708)
सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम्।
केशिनीं श्लक्ष्णया वाचा रुदन्ती पुनरब्रवीत् ॥ 3-73-19(18709)
पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम्।
महानसाच्छ्रितं मांसमानयस्वेह भामिनि ॥ 3-73-20(18710)
सा दृष्ट्वाबाहुके व्यग्रे तन्मांसमपकृष्य च।
अत्युष्णमेव त्वरिता तत्क्षणात्प्रियकारिणी।
दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन ॥ 3-73-21(18711)
साऽशिता नलसिद्धस् मांसस्य बहुशः पुरा।
प्राश्य मत्वा नलं सूतं प्राक्रोशद्भृशदुःखिता ॥ 3-73-22(18712)
वैक्लव्यं परमं गत्वाप्रक्षाल्य च मुखं ततः।
मिथुनं प्रेषयामास केशिन्या सह भारत् ॥ 3-73-23(18713)
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः।
अभिद्रुत्य तदा राजा परिष्वज्याङ्कमानयत् ॥ 3-73-24(18714)
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ।
भृशं दुःखपरीतात्मा सुस्वरं प्ररुरोद ह ॥ 3-73-25(18715)
नैषधो दर्शयित्वा तु विकारमसकृत्तदा।
उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् ॥ 3-73-26(18716)
इदं च मदृशं भद्रे मिथुनं मम पुत्रयोः।
अतो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम् ॥ 3-73-27(18717)
बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः।
वयंच देशातिथयो गच्छ भद्रे यथासुखम् ॥ 3-73-28(18718)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि त्रिसप्ततितमोऽध्यायः ॥ 73 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-73-9 द्वारं ह्रस्वमपि उत्सर्पति दीर्घं भवति। संकटे संकुचिते ॥ 3-73-10 पाशवं पशुसंबन्धि ॥ 3-73-12 सवितुः सकाशात्। समादधत् उद्दीपितवान्। समादाय ह्याविध्यैनमिति झ. पाठः ॥ 3-73-18 कर्म पाकादि। चेष्टा भूतजयादि ॥ 3-73-22 बहुशः बहुवारम् ॥ 3-73-28 संपतन्तीं आयान्तीम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|